Posts

Showing posts from April, 2021

गीताभ्यासे - 3-41 तस्मात्त्वमिन्द्रियाण्यादौ… 3-43 एवं बुद्धेः परं बुद्ध्वा

Image
ॐ  नमो नम: ।   तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ । पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ॥ ३-४१॥ इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ॥ ३-४२॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना । जहि शत्रुं महाबाहो कामरूपं दुरासदम् ॥ ३-४३॥ ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु  ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे  कर्मयोगो नाम तृतीयोऽध्यायः । (१) पदच्छेदैः  तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ । पाप्मानम् प्रजहि हि एनम् ज्ञानविज्ञाननाशनम् ॥ ३-४१॥ इन्द्रियाणि पराणि आहु: इन्द्रियेभ्यः परं मनः । मनस: तु परा बुद्धि: यः बुद्धेः परत: तु सः ॥ ३-४२॥ एवं बुद्धेः परं बुद्ध्वा संस्तभ्य आत्मानम् आत्मना । जहि शत्रुम् महाबाहो कामरूपम् दुरासदम् ॥ ३-४३॥ ॐ तत् सत् । इति श्रीमद्भगवद्गीतासु उपनिषत्सु  ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे  कर्मयोग: नाम तृतीय: अध्यायः । (२) वाक्यांशश: पदाभ्यासा: अन्वयार्थाश्च ।    भरतर्षभ तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य एनम् पाप्मानम् ज्ञानविज्ञाननाशनम् प्रजहि हि । (मुनयः)