Posts

Showing posts from November, 2026

गीताभ्यासे १८’४२ +++

  गीताभ्यासे १८’४२ शमो दमस्तपः शौचम् … १८-४४ कृषिगौरक्ष्यवाणिज्यम्       ================== शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च । पदच्छेदैः - शम: दम: तपः शौचम् क्षान्ति: आर्जवम् एव च । ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ॥१८-४२॥ पदच्छेदैः - ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्मकर्म स्वभावजम् ॥१८-४२॥ शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् । पदच्छेदैः - शौर्यम् तेज: धृति: दाक्ष्यम् युद्धे च अपि अपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥१८-४३॥ पदच्छेदैः - दानम् ईश्वरभाव: च क्षात्रम् कर्म स्वभावजम् ॥१८-४३॥ कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् । पदच्छेदैः - कृषिगौरक्ष्यवाणिज्यम् वैश्यकर्म स्वभावजम् । परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ॥१८-४४॥  पदच्छेदैः - परिचर्यात्मकम् कर्म शूद्रस्य अपि स्वभावजम् ॥१८-४४॥   अन्वयाः शब्दाभ्यासाश्च   शम: दम: तपः शौचम् क्षान्ति: आर्जवम् एव च ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्मकर्म स्वभावजम् ॥१८-४२॥   शम: - शम पुं. 1’1 / शमः [शम्-घञ्] 1 Quiet, tranquillity, calm...