गीताभ्यासे 4-20 त्यक्त्वा कर्मफलासङ्गम्

 ॐ 

नमो नम: 

गीताभ्यासे 4-20 त्यक्त्वा कर्मफलासङ्गम्       

 A study by S. L. Abhyankar 

==================

The श्लोकः is ⇒ 

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।

कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ॥४-२०॥

1 पदच्छेदैः 

त्यक्त्वा कर्मफल-आसङ्गम् नित्यतृप्त: निराश्रयः ।

कर्मणि अभिप्रवृत्त: अपि न एव किञ्चित् करोति सः ॥४-२०॥

2 वाक्यांशशः विश्लेषणम् of (४-२०)

अनुक्र.

अव्यया: 

अन्ये सुबन्ताः 

कर्तृपदीयाः

कर्मपदीयाः

तिङन्ताः 

कृदन्ताः 

20’1 


  


कर्मफलासङ्गम् 


त्यक्त्वा 

20’2







20’3

अपि 

कर्मणि 




अभिप्रवृत्तः 

20’4

न एव 


नित्यतृप्तः निराश्रयः सः 

किञ्चित् 

करोति 


Note

  1. The वाक्यांशः (20’3) कर्मणि अभिप्रवृत्त: अपि is adjectival extension to कर्तृपदीयाः in (20’4). अभिप्रवृत्त: is कृदन्तः and it becomes appropriate to consider कर्मणि अभिप्रवृत्त: अपि as a distinct वाक्यांशः.  

3 पदाभ्यासाः 

The वाक्यम् is 

त्यक्त्वा कर्मफल-आसङ्गम् नित्यतृप्त: निर्-आश्रयः कर्मणि अभिप्रवृत्त: अपि न एव किञ्चित् करोति सः | 

  1. त्यक्त्वा - त्यज्-धातोः क्त्वान्तम् | त्यज् त्यजँ हानौ (to abandon, to leave, to quit, to let go, to renounce) भ्वादिः, ०१.११४१ परस्मैपदी, सकर्मकः, अनिट् 

  2. कर्मफल-आसङ्गम् - कर्मफलासङ्ग नाम पुं. 2’1 

    1. कर्मणः फलम् इति कर्मफलम् (षष्ठी-तत्पुरुषः) 

    2. कर्मफले आसङ्गः इति कर्मफलासङ्ग: (सप्तमी-तत्पुरुषः) 

    3. कर्मणः - कर्मन् नाम नपुं. 6’1 | कर्मन् n. [कृ-मनिन् Uṇ.4.144] 1 Action, work, deed. -2 Execution, performance; प्रीतोऽस्मि सोऽहं यद् भुक्तं वनं तैः कृतकर्मभिः Rām.5.63.30. -3 Business, office, duty; संप्रति विषवैद्यानां कर्म M.4. -4 A religious rite (it may be either नित्य, नैमित्तिक or काम्य). -5 A specific action, moral duty. -6 (a) Performance of religious rites as opposed to speculative religion or knowledge of Brahman (opp. ज्ञान); अपरो दहृने स्वकर्मणां ववृते R.8.20. (b) Labour, work. -7 Product, result. -8 A natural or zactive property 

    4. आसङ्गः - 1 Attachment, devotion (to any object) (to enjoy or protect it); सुख˚ लुब्धः K.173; U.3; चेतः स्वर्गतरङ्गिणीतटभुवामासङ्गमङ्गीकुरु Bh.3.60. -2 Intentness, close application. -3 Contact, adherence, clinging; (पङ्कजम्) सशैवलासङ्गमपि प्रकाशते Ku.5.9;3.46; व्रततिवलयासङ्गसंजातपाशः Ś.1.33; Mu.1.14; अनासङ्गः absence of consolation; Māl.2. -4 Association, connection, union; त्यक्त्वा कर्मफलासङ्गम् Bg.4.20

    5. कर्मफलासङ्ग: = association with the fruit or result of action 

  3. नित्यतृप्त: - नित्यतृप्त वि. अत्र पुं. 1’1 

    1. नित्यं तृप्तः इति नित्यतृप्तः (अव्ययीभावः) 

    2. नित्यम् - अव्ययम् always 

    3. तृप्तः - तृप्-धातोः क्त-वि. अत्र पुं. 1’1 | 

      1. तृप् तृपँ प्रीणने (to satisfy, to be satisfied, to please, to be pleased) दिवादिः, ०४.००९२ परस्मैपदी, सकर्मकः, वेट् 

      2. तृप् तृपँ प्रीणने (to satisfy, to please) स्वादिः, ०५.००२८ परस्मैपदी, सकर्मकः, सेट् 

      3. तृप् तृपँ तृप्तौ (to satisfy, to be satisfied, to please, to be pleased) तुदादिः, ०६.००२८ परस्मैपदी, सकर्मकः, सेट्  

      4. तृप् तृपँ तृप्तौ (to be satisfied, to be happy to satisfy, to make happy) सन्दीपने प्रीणने च चुरादिः, १०.०३५१ उभयपदी, सकर्मकः, सेट् 

    4. नित्यतृप्त: = always contented

  4. निर्-आश्रयः - निराश्रय वि. अत्र पुं. 1’1 

    1. निर्वृत्तः आश्रयः यस्मात् सः (बहुव्रीहिः) 

    2. निराश्रय: = non-subservient, “one who does not possess a Reason, which has taken 'shelter' (आश्रयः) in the means of obtaining the Fruit of Action, by wishing to do a particular Action, for a particular result”  

  5. कर्मणि - कर्मन् नाम नपुं. 7’1 | 

  6. अभिप्रवृत्त: - (अभि+प्र+वृत्)-इत्यस्य धातोः क्त-वि. अत्र पुं. 1’1 | अभिप्रवृत्त p. p. 1 Advancing, going up to. -2 Occurring. -3 Engaged or occupied in (with loc.); कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः Bg.4.20.

  7. अपि - अव्ययम् even if, also 

  8. न - अव्ययम् not

  9. एव - अव्ययम् Note नैव (न एव) means ‘not at all’.

  10. किञ्चित् (किम्+चित्) - anything 

  11. करोति - कृ-धातोः लटि प्र.पु. एक. | कृ डुकृञ् करणे (to do, to act, to make) तनादिः, ०८.००१० उभयपदी, सकर्मकः, अनिट् 

  12. सः - तत् सर्व. अत्र पुं. 1’1 

4 सारांशतः Overall Meaning 

This is taken from translation of गीतारहस्य of लोकमान्य टिळक at https://archive.org/details/SrimadBhagavadGitaRahasya-BgTilak-Volumes1And2/SrimadBhagavadGitaRahasya-BgTilak-Vol2/page/n377/mode/2up

त्यक्त्वा कर्मफल-आसङ्गम् नित्यतृप्त: निर्-आश्रयः कर्मणि अभिप्रवृत्त: अपि न एव किञ्चित् करोति सः = (The man) Who, having given up the Attachment for the Fruit of Action, is always happy and निराश्रय: that is, one who does not possess a Reason, which has taken 'shelter' आश्रयः in the means of obtaining the Fruit of Action, by wishing to do a particular Action, for a particular result is (said to be) doing nothing whatsoever, though he may be engrossed in performing Actions. 


5 छन्दोविश्लेषणम् 

त्यक्त्वा कर्मफलासङ्गं (८ अक्षराणि) “फलास(ङ्गं)” एतेषां मात्राः १-२-२

नित्यतृप्तो निराश्रयः (८ अक्षराणि) “निराश्र” एतेषां मात्राः १-२-१

कर्मण्यभिप्रवृत्तोऽपि (८ अक्षराणि) “प्रवृत्तो” एतेषां मात्राः १-२-२

नैव किञ्चित्करोति सः (८ अक्षराणि) “त्करोति” एतेषां मात्राः १-२-१

अनुष्टुभ् छन्दः in (४-२०) 

I have compiled टिप्पण्यः Notes of self-study for the four श्लोकाः 4-20 to 4-23 together and are at श्लोक: 4-23. 

So, for the present 

शुभमस्तु !

-o-O-o- 


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्