गीताभ्यासे 05-02 संन्यासः कर्मयोगश्च + 05-03 ज्ञेयः स नित्यसंन्यासी

 ॐ 

नमो नम: 

गीताभ्यासे 05-02 संन्यासः कर्मयोगश्च + 05-03 ज्ञेयः स नित्यसंन्यासी    

 A study by S. L. Abhyankar 

==================

We shall first do the basic study of the two श्लोकौ one by one. 

(५-२)

श्रीभगवानुवाच ।

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५-२॥

पदपाठ: - श्रीभगवान् उवाच संन्यासः कर्मयोगः च निःश्रेयसकरौ उभौ । तयोः तु कर्मसंन्यासात् कर्मयोगः विशिष्यते

वाक्यांशशः विश्लेषणम् (५-२)

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

1


श्रीभगवान्  


उवाच 


2-1


संन्यास: कर्मयोग: *च  


 

 

2-2


उभौ



निःश्रेयसकरौ

3

तयोः *तु कर्मसंन्यासात् 

कर्मयोगः 


विशिष्यते 


Note, the अव्ययौ *च and *तु are marked with * and are placed alongside the words with which they are associated. That way they read better.  

अन्वयार्थाः पदाभ्यासाश्च 

श्रीभगवान् उवाच said …

संन्यासः कर्मयोगः च उभौ निःश्रेयसकरौ । 

  • संन्यासः - In Apte’s dictionary संन्यासः 1 Leaving, abandonment. -2 Complete renunciation of the world and its possessions and attachments, abandonment of temporal concerns; काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः Bg.18.2 

    • The quote काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः Bg.18.2 is sort of definition of संन्यासः or the premise by which the word संन्यासः is mentioned by श्रीभगवान् 

  • कर्मयोगः - कर्म एव योगः इति कर्मयोगः 

    • In Apte’s dictionary कर्मन् -n. [कृ-मनिन् Uṇ.4.144] 1 Action, work, deed. -योगः 1 performance of actions, worldly and religious rites; कर्मयोगेन योगिनाम् Bg.3.3;3.7;5.2;13.24. 

  • उभौ - उभ सर्व. नित्यद्विवचनेन अत्र पुं. १/२. 

  • निःश्रेयसकरौ it is interesting that निःश्रेयसकर and निःश्रेयस्कर both are valid words. 

  • निःश्रेयसकर is from निःश्रेयसम् (निश्चयेन श्रेयसम्) where निःश्रेयस and श्रेयस are adjectival.  

  • निःश्रेयस्कर is from निःश्रेयस् (निःश्रेयः, निश्चयेन श्रेय:) where निःश्रेयः and श्रेय: are nouns. 

  • कर a. (-रा or -री) [करोति, कीर्यते अनेन इति, कृ-कॄ-अप्] (Mostly at the end of comp.) Who or what does, makes or causes &c.; दुःख˚, सुख˚, भय˚ &c. 

  • In deciphering निःश्रेयसकरम् as निःश्रेयसम् करोति the word निःश्रेयसम् is adverbial.  

  • संन्यासः कर्मयोगः च उभौ निःश्रेयसकरौ - renunciation and execution of actions both are benevolent. 

तयोः तु कर्मसंन्यासात् कर्मयोगः विशिष्यते 

  • तयोः - तत् सर्व. अत्र पुं. ६/२

  • कर्मसंन्यासात् - कर्मसंन्यास: पुं. ५/१

  • कर्मयोगः - कर्म एव योगः इति कर्मयोगः 

  • विशिष्यते - वि+शिष् इति धातुः तस्य कर्मणिप्रयोगे लटि प्र.पु. एक. 

    • शिष् शिषँ हिंसायाम् (to kill, to destroy, to hurt) भ्वादिः, ०१.०७८३ परस्मैपदी, सकर्मकः, अनिट् 

    • शिष् शिषॢँ विशेषणे (to distinguish, to criticize, to characterize) रुधादिः, ०७.००१४ परस्मैपदी, सकर्मकः, अनिट् 

    • शिष् शिषँ असर्वोपयोगे (to retain, to save) चुरादिः, १०.०३४९ उभयपदी, सकर्मकः, सेट् 

  • तयोः तु however of the two कर्मसंन्यासात् better than renunciation of कर्म is कर्मयोगः i.e. execution of actions विशिष्यते stands out, is commendable.

छन्दोविश्लेषणम् (५-२)

संन्यास: कर्मयोगश्च (८ अक्षराणि) “र्मयोग(श्च)” एतेषां मात्राः १-२-२

निःश्रेयसकरावुभौ (८ अक्षराणि) “करावु” एतेषां मात्राः १-२-१

तयोस्तु कर्मसंन्यासात् (८ अक्षराणि) “र्मसंन्या” एतेषां मात्राः १-२-२

कर्मयोगो विशिष्यते (८ अक्षराणि) “विशिष्य” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 

(५-३)

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५-३॥ 

पदपाठ: - ज्ञेयः सः नित्यसंन्यासी यः न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वः हि महाबाहो सुखम् बन्धात् प्रमुच्यते 

वाक्यांशशः विश्लेषणम् (५-३)

अनुक्र.

अन्ये सुबन्ताः  

कर्तृपदीयाः 

विधेयभावे 

कर्मपदीयाः 

तिङन्ताः

कृदन्ताः

१-१


यः 



*न द्वेष्टि 


१-२


(यः) 



*न काङ्क्षति 


१-३


सः  

नित्यसंन्यासी



ज्ञेयः 


महाबाहो






बन्धात् 

निर्द्वन्द्वः *हि

सुखम् 


प्रमुच्यते 


अन्वयार्थाः पदाभ्यासाश्च 

यः न द्वेष्टि न काङ्क्षति सः नित्यसंन्यासी ज्ञेयः । 

  • द्वेष्टि - द्विष्-धातोः लटि प्र.पु. एक. द्विष् द्विषँ अप्रीतौ (to hate, to dislike, to grudge) अदादिः, ०२.०००३ उभयपदी, सकर्मकः, अनिट् 

  • काङ्क्षति - काङ्क्ष्-धातोः लटि प्र.पु. एक. काङ्क्ष् काक्षिँ काङ्क्षायाम् (to desire, to long for, to wish) भ्वादिः, ०१.०७६० परस्मैपदी, सकर्मकः, सेट् 

  • नित्यसंन्यासी - नित्यसंन्यासिन् वि. अत्र पुं. १/१

  • ज्ञेयः - ज्ञा-धातोः यत्-वि. ज्ञेय knowable । अत्र पुं. १/१

  • यः न द्वेष्टि he who does not hate न काङ्क्षति who has no desires सः he as नित्यसंन्यासी ever renouncing ज्ञेयः is known. 

महाबाहो - महाबाहु वि. अत्र पुं. सम्बोधनमेकवचनम् 

  • महान्तौ बाहू यस्य सः महाबाहुः (बहुव्रीहिः) one with large arms. 

निर्द्वन्द्वः हि बन्धात् सुखम् प्रमुच्यते 

  • निर्द्वन्द्वः - निर्गतानि द्वन्द्वानि यस्मात् सः निर्द्वन्द्वः (बहुव्रीहिः) one who has no dilemmas, dualities 

  • बन्धात् - बन्धः bondage पुं. ५/१ 

  • सुखम् - Note, the commonplace meaning of सुखम् is happiness. But in the tabulation above of वाक्यांशशः विश्लेषणम् I have put it as विधेयभावे in the predicate part of the वाक्यांश: because it has the adverbial sense सुखम् meaning ‘happily’

  • प्रमुच्यते - (प्र+मुच्)-धातोः कर्मणिप्रयोगे लटि प्र.पु. एक. 

  • निर्द्वन्द्वः हि बन्धात् सुखम् प्रमुच्यते = He who has no dualities is happily freed of bondage. 


छन्दोविश्लेषणम् (५-३)

ज्ञेयः स नित्यसंन्यासी (८ अक्षराणि) “त्यसंन्या” एतेषां मात्राः १-२-२

यो न द्वेष्टि न काङ्क्षति (८ अक्षराणि) “न काङ्क्ष” एतेषां मात्राः १-२-१

निर्द्वन्दो हि महाबाहो (८ अक्षराणि) “महाबा” एतेषां मात्राः १-२-२

सुखं बन्धात्प्रमुच्यते (८ अक्षराणि) “त्प्रमुच्य” एतेषां मात्राः १-२-१ 

अनुष्टुभ् छन्दोऽयम् 


स्वाध्यायः टिप्पण्यश्च Notes of self-study 

1 In the first श्लोक: (५-२) संन्यासः कर्मयोगः च निःश्रेयसकरौ उभौ । तयोः तु कर्मसंन्यासात् कर्मयोगः विशिष्यते the word संन्यास: is initially stand alone. But further on in कर्मसंन्यासात् कर्मयोगः विशिष्यते, both the words संन्यास: and योगः are compounded with कर्म. That brings clarity that here the meanings of संन्यास: and योगः have to be understood in the context of कर्म.

2 In the next श्लोक: (५-३) ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति । निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥ the word निर्द्वन्द्व: has many ramifications. By its basic meaning निर्द्वन्द्व: is one, whose mind is free of all dilemmas, for whom all dualities are resolved. 

  • In the English words ‘dilemma’ and ‘duality’ the components ‘di’ and ‘du’ stand for ‘two’. 

  • In the word द्वन्द्व also the conjunct consonant द्व stands for ‘two’. So, द्वन्द्व means ‘two-two’. 

It is said that someone thought of compiling dualities, rather, couplets of words, which go together, mostly antonyms mentioned in गीता. It is said that the compilation became some 180 pairs of dualities. As such द्वेष्टि and काङ्क्षति hates-desires is a duality right here. Well known couplets of antonyms are सुखदुःखे लाभालाभौ जयाजयौ in 2-38. There are शुभाशुभ, मानापमान, शीतोष्ण, निन्दास्तुति in 12-17, 12-18, 12-19. All in all निर्द्वन्द्व: is the state and quality of equanimity. 


This list of द्वन्द्वानि also brings to mind a सुभाषितम् 

अयं निजः परो वेति गणना लघुचेतसाम्  

उदारचरितानांस्तु वसुधैव कुटुंबकम् 

The द्वन्द्वम् here is निजः-पर:, ‘mine-not mine’ This same thought of वसुधैव कुटुंबकम् ‘the whole world is one family’ is very much endorsed in ईशावास्योपनिषत् - 

यस्मिन् सर्वाणि भूतानि 

आत्मैवाभूद्विजानतः 

तत्र को मोहः कः शोकः 

एकत्वमनुपश्यतः 

For the wise विजानतः, whose आत्मा एव अभूत् has become सर्वाणि भूतानि all the creation, for him एकत्वमनुपश्यतः who sees all as one, there is no question of affection or of grief को मोहः कः शोकः. 

This is endorsed in गीता also 

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।

सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२॥

One who पश्यति sees सर्वत्र all over समं equally, सुखं वा यदि वा दुःखं whether in the mood of happiness or of sorrow आत्मौपम्येन by comparison or in relation with oneself स: परम: योगी he is the venerable योगी. 


3 The phrase ज्ञेयः स नित्यसंन्यासी in (५-३) suggests that one needs not don saffron robes to be known as a संन्यासी. One is a संन्यासी by one’s approach to worldly matters, if one neither hates nor aspires for, is equanimous, is free of all dualities. With such approach itself, he is नित्यसंन्यासी, a संन्यासी always and forever, even doing कर्मयोग: which is preferable to कर्मसंन्यास: 


4 It would be good to read both the श्लोकौ together to check, appreciate and assimilate the coherence and continuity 

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥५-२॥

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥५-३॥

 

5 The most assuring statement and one of final beatitude is सुखं बन्धात्प्रमुच्यते one is happily freed of all bondage. 


शुभमस्तु !

-o-O-o- 


Comments

Popular posts from this blog

गीताभ्यासे 4-31 यज्ञशिष्टामृतभुजो

गीताभ्यासे 4-36, 4-37, 4-38

गीताभ्यासे 4-35 यज्ज्ञात्वा न पुनर्मोहम्